(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.134. अध्यायः 134
Mahabharata - Vana Parva - Chapter Topics
लोमशेन श्वेतकेतोराश्रमंगतं द्युधिष्ठिरंप्रति अष्टावक्रोपाख्यानकथधनारम्भः ॥ 1 ॥ धनार्जनाय जनकपुरं गतस्य कहोळस्य वन्दिना वादे विजित्य जले विनिमज्जनम् ॥ 2 ॥ तद्विदितवता तत्पुत्रेणाष्टावक्रेण श्वेतकेतुनासह जनकनगरंप्रति गमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

लोमश उवाच। 3-134-0x(2144)(21009)
यः कथ्यते मन्त्रविदग्र्यबुद्धि-
रौद्दालकिः श्वेतकेतुः पृथिव्याम्।
तस्याश्रमं पश्यत पाण्डवेया
सदाफलैरुपपन्नं महीजैः ॥ 3-134-1(21010)
साक्षादत्र श्वेतकेतुर्ददर्श
सरस्वतीं मानुषदेहरूपाम्।
वेत्स्यामि वाणीमिति संप्रवृत्तां
सरस्वतीं श्वेतकेतुर्बभाषे ॥ 3-134-2(21011)
अस्मिन्युगे ब्रह्मकृतां वरिष्ठा-
वास्तां मुनी मातुलभागिनेयौ।
अष्टावक्रश्चैव कहोलसूनु-
रौद्दालकिः श्वेतकेतुः पृथिव्याम् ॥ 3-134-3(21012)
विदेहराजस् समीपतस्तौ
घीरावुभौ मातुलभागिनेयौ।
प्रविश्य यज्ञायतनं विवादे
वन्दिं निजग्राहतुरप्रमेयौ ॥ 3-134-4(21013)
उपास्स्व कौन्तेय सहानुजस्त्वं
तस्याश्रमं पुण्यतमं प्रविश्य।
अष्टावक्रं यस्य दौहित्रमाहु-
र्योऽसौ वन्दिं जनकस्याथ यज्ञे।
वादि विप्राग्न्यो बाल एवाभिगम्य
वादे भङ्क्त्वा मज्जयामास नद्याम् ॥ 3-134-5(21014)
युधिष्ठिर उवाच। 3-134-6x(2145)
कथंप्रभावः स बभूव विप्र-
स्तथाभूतं यो निजग्राह वन्दिम्।
`किंचाधिकृत्याथ तयोर्विवादो
विदेहराजस् समीप आसीत्' ॥ 3-134-6(21015)
अष्टावक्रः केन चासौ बभूव
तत्सर्वं मे लोमश शंस तत्त्वम् ॥ 3-134-7(21016)
लोमश उवाच। 3-134-8x(2146)
उद्दालकस्य नियतः शिष्य एको
नाम्ना कहोळेति बभूव राजन्।
शुश्रूषुराचार्यवशानुवर्ती
दीर्घ कालं सोऽध्ययनं चकार ॥ 3-134-8(21017)
तं वै विप्राः पर्यभवंस्तु शिखा-
स्तं च ज्ञात्वा विप्रकारं गुरुः सः।
तस्मै प्रादात्सद्य एव श्रुतं च
भार्यां च वै दुहितरं स्वां सुजाताम् ॥ 3-134-9(21018)
तस्यां गर्भः समभवदग्निकल्पः
सोऽधीयानं पितरमथाभ्युवाच।
सर्वां रात्रिमध्ययनं करोषि
नेदं पितः सम्यगिवोपवर्तते ॥ 3-134-10(21019)
उपालब्धः शिष्यमध्ये महर्षिः
स तं कोपादुदरस्थं शशाप।
यस्माद्वक्रं वर्तमानो ब्रवीषि
तस्माद्वक्रो भवितास्यष्टधैव ॥ 3-134-11(21020)
स वै तथा वक्र एवाभ्यजाय-
दष्टावक्रः प्रथितो मानवेषु।
अस्यासीद्वै मातुलः श्वेतकेतुः
स तेन तुल्यो वयसा बभूव ॥ 3-134-12(21021)
संपीड्यमाना तु तदा सुजाता
विवर्धमानेन सुतेन कुक्षौ।
उवाच भर्तारमिदं रहोगता
प्रसाद्य हीना वसुना धनार्थिनी ॥ 3-134-13(21022)
कथं करिष्याम्यधुना महर्षे
मासश्चायं दशमो वर्तते मे।
नैवास्ति मे वसु किंचित्प्रदाता
येंनाहमेतामापदं निस्तरेयम् ॥ 3-134-14(21023)
उक्तस्त्वेवं भार्यया वै कहोळो
वित्तस्यार्थे जनकमथाभ्यगच्छत्।
स वै तदा वादविदा निगृह्य
निमज्जितो वन्दिनेहाप्सु विप्रः ॥ 3-134-15(21024)
उद्दालकस्तं तु तदा निशम्य
सूतेन वादेऽप्सु निमज्जितं तथा।
उवाच तां तत्रततः सुजात-
मष्टवक्रे गूहितव्योऽयमर्थः ॥ 3-134-16(21025)
ररक्ष सा चापि तमस् मन्त्रं
जातोऽप्यसौ नैव शुश्राव विप्रः।
उद्दालकं पितरं सोऽभिमेने
तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम् ॥ 3-134-17(21026)
ततो वर्षे द्वादशे श्वेतकेतु-
रष्टावक्रं पितुरङ्के निषण्णम्।
अपाकर्षद्गृह्यपाणौ रुदन्तं
नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ 3-134-18(21027)
यत्तेनोकतं दुरुक्तं तत्तदानीं
हृदि स्थितं तस्य सुदुःखमासीत्।
गृहं गत्वा मातरं सोऽथ विग्रः
पप्रच्छेदं क्व नु तातो ममेति ॥ 3-134-19(21028)
ततः सुजाता परमार्तरूपा
शापाद्भीता तत्त्वमस्याचचक्षे।
तद्वै तत्त्वंसर्वमाज्ञाय रात्रा-
वित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥ 3-134-20(21029)
गच्छाव यज्ञं जनकस्य राज्ञो
बह्वाश्चर्यः श्रूयते तस्य यज्ञः।
श्रोष्यावोऽत्र ब्राह्मणानां विवाद-
मन्नं चाग्र्यं तत्रभोक्ष्यावहे च ॥ 3-134-21(21030)
विचक्षणत्वं च भविष्यते नौ
शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ 3-134-22(21031)
तौ जग्मतुर्मातुलभागिनेयौ
यज्ञं समृद्धं जमकस्य राज्ञः।
अष्टावक्रः पथि राज्ञा समेत्य
प्रोत्सार्यमाणो वाक्यमिदं जगाद ॥ 3-134-23(21032)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-134-4 वन्दिं वन्दिनम्। निजग्राहतुः ॥ 3-134-9 तं वै विप्रः पर्यचरत्सशिष्यस्तां च ज्ञात्वा परिचर्यां गुरुः सः। इति झ पाठः ॥ 3-134-11 यस्मात्कुक्षौ वर्तमान इति झ. पाठः ॥ 3-134-14 वसुकिंचित्प्रजातेति झ. पाठः। प्रजाता प्रसूता ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.